|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.209. अध्यायः 209
Mahabharata - Adi Parva - Chapter Topics
कुन्त्या सह पाण्डवानां द्रुपदगृहगमनम्॥ 1 ॥ परीक्षणार्थं द्रुपदेन अनेकविधवस्तूपहरणम्॥ 2 ॥ द्रौपद्या सह कुन्त्या अन्तःपुरप्रवेशः॥ 3 ॥ भोजनानन्तरं पाण्डवानां साङ्ग्रामिकवस्तुपूर्णप्रदेशे प्रवेशः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
दूत उवाच। 1-209-0x(1155)(9191)
जन्यार्थमन्नं द्रुपदेन राज्ञा
विवाहहेतोरुपसंस्कृतं च।
तदाप्नुवध्वं कृतसर्वकार्याः
कृष्णा च तत्रैतु चिरं न कार्यम्॥ 1-209-1(9192)
इमे रथाः काञ्चनपद्मचित्राः
सदश्वयुक्ता वसुधाधिपार्हाः।
एतान्समारुह्य परैत सर्वे
पाञ्चालराजस्य निवेशनं तत्॥ 1-209-2(9193)
वैशम्पायन उवाच। 1-209-3x(1156)
ततः प्रयाताः कुरुपुंगवास्ते
पुरोहितं तं परियाप्य सर्वे।
आस्थाय यानानि महान्ति तानि
कुन्ती च कृष्णा च सहैकयाने॥ 1-209-3(9194)
`स्त्रीभिः सुगन्धाम्बरमाल्यदानै-
र्विभूषिता आभरणैर्विचित्रैः।
माङ्गल्यगीतध्वनिवाद्यघोषै-
र्मनोहरैः पुण्यकृतां वरिष्ठैः॥ 1-209-4(9195)
संगीयमानाः प्रययुः प्रहृष्टा
दीपैर्ज्वलद्भिः सहिताश्च विप्रैः॥ 1-209-5(9196)
स वै तथोक्तस्तु युधिष्ठिरेण
पाञ्चालराजस्य पुरोहितोऽग्र्यः।
सर्वं यथोक्तं कुरुनन्दनेन
निवेदयामास नृपाय गत्वा॥' 1-209-6(9197)
श्रुत्वा तु वाक्यानि पुरोहितस्य
यान्युक्तवान्भारत धर्मराजः।
जिज्ञासयैवाथ कुरूत्तमानां
द्रव्याण्यनेकान्युपसंजहार॥ 1-209-7(9198)
फलानि माल्यानि च संस्कृतानि
वर्माणि चर्माणि तथाऽऽसनानि।
गाश्चैव राजन्नथ चैव रज्जू-
र्बीजानि चान्यानि कृषीनिमित्तम्॥ 1-209-8(9199)
अन्येषु शिल्पेषु च यान्यपि स्युः
सर्वाणि कृत्यान्यखिलेन तत्र।
क्रीडानिमित्तान्यपि यानि तत्र
सर्वाणि तत्रोपजहार राजा॥ 1-209-9(9200)
वर्माणि चर्माणि च भानुमन्ति
खड्गा महान्तोऽश्वरथाश्च चित्राः।
धनूंषि चाग्र्याणि शराश्च चित्राः
शक्त्यृष्टयः काञ्चनभूषणाश्च॥ 1-209-10(9201)
प्रासा भुशुण्ड्यश्च परश्वधाश्च
सांग्रामिकं चैव तथैव सर्वम्।
शय्यासनान्युत्तमवस्तुवन्ति
तथैव वासो विविधं च तत्र॥ 1-209-11(9202)
कुन्ती तु कृष्णां परिगृह्य साध्वी-
मन्तःपुरं द्रुपदस्याविवेश।
स्त्रियश्च तां कौरवराजपत्नीं
प्रत्यर्चयामासुरदीनसत्वाः॥ 1-209-12(9203)
तान्सिंहविक्रान्तगतीन्निरीक्ष्य
महर्षभाक्षानजिनोत्तरीयान्।
गूढोत्तरांसान्भुजगेन्द्रभोग-
प्रलम्बबाहून्पुरुषप्रवीरान्॥ 1-209-13(9204)
राजा च राज्ञः सचिवाश्च सर्वे
पुत्राश्च राज्ञः सुहृदस्तथैव।
प्रेष्याश्च सर्वे निखिलेन राज-
न्हर्षं समापेतुरतीव तत्र॥ 1-209-14(9205)
ते तत्र वीराः परमासनेषु
सपादपीठेष्वविशङ्कमानाः।
यथानुपूर्व्याद्विविशुर्नराग्र्या-
स्तथा महार्हेषु न विस्मयन्तः॥ 1-209-15(9206)
उच्चावचं पार्थिवभोजनीयं
पात्रीषु जाम्बूनदराजतीषु।
दासाश्च दास्यश्च सुमृष्टवेषाः
संभोजकाश्चाप्युपजह्रुरन्नम्॥ 1-209-16(9207)
ते तत्र भुक्त्वा पुरुषप्रवीरा
यथात्मकामं सुभृशं प्रतीताः।
उत्क्रम्य सर्वाणि वसूनि राज-
न्सांग्रामिकं ते विविशुर्नृवीराः॥ 1-209-17(9208)
तल्लक्षयित्वा द्रुपदस्य पुत्रा
राजा च सर्वैः सह मन्त्रिमुख्यैः।
समर्थयामासुरुपेत्य हृष्टाः
कुन्तीसुतान्पार्थिवराजपुत्रान्॥ ॥ 1-209-18(9209)
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवाधिकद्विशततमोऽध्यायः॥ 209 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-209-1 जन्यार्थं वरपक्षीयजतार्थं॥ 1-209-3 परियाप्य प्रस्थाप्य॥ 1-209-9 कृन्तन्तीति कृत्यानि वास्यादीनि॥ 1-209-11 वस्तुवन्ति मतोर्मस्य वत्वमार्षम्॥ 1-209-13 गूढोत्तरांसान्गूढजत्रून् गूढोन्नतांसान् इति ङ. पाठः॥ नवाधिकद्विशततमोऽध्यायः॥ 209 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|